Sukta 4.40
उत स्मास्य द्रवतस्तुरण्यतः पर्णं न वेरनु वाति प्रगर्धिनः । श्येनस्येव ध्रजतो अङ्कसं परि दधिक्राव्णः सहोर्जा तरित्रतः ॥
उ॒त स्मा॑स्य॒ द्रव॑तस्तुरण्य॒तः प॒र्णं न वेरनु॑ वाति प्रग॒र्धिन॑: । श्ये॒नस्ये॑व॒ ध्रज॑तो अङ्क॒सं परि॑ दधि॒क्राव्ण॑: स॒होर्जा तरि॑त्रतः ॥
utá smā́sya drávatas turaṇyatáḥ párṇaṃ ná vér ánu vā́ti pragardhínaḥ | śyenásyeva dhrájató aṅkásaṃ pári dadhikrā́vṇaḥ sahó ūrjá tári-trataḥ ||
And indeed, as he runs in his swift urge, the wind follows him like a leaf in flight, driven by the strong one. Like a falcon’s quivering flight-feather, the mighty energy and force of Dadhikrāvan surround him as he crosses beyond.
उ॒त । स्म॒ । अ॒स्य॒ । द्रव॑तः । तु॒र॒ण्य॒तः । प॒र्णम् । न । वेः । अनु॑ । वा॒ति॒ । प्र॒ऽग॒र्धिनः॑ । श्ये॒नस्य॑ऽइव । ध्रज॑तः । अ॒ङ्क॒सम् । परि॑ । द॒धि॒ऽक्राव्णः॑ । स॒ह । ऊ॒र्जा । तरि॑त्रतः ॥उत । स्म । अस्य । द्रवतः । तुरण्यतः । पर्णम् । न । वेः । अनु । वाति । प्रगर्धिनः । श्येनस्यइव । ध्रजतः । अङ्कसम् । परि । दधिक्राव्णः । सह । ऊर्जा । तरित्रतः ॥uta | sma | asya | dravataḥ | turaṇyataḥ | parṇam | na | veḥ | anu | vāti | pra-gardhinaḥ | śyenasya-iva | dhrajataḥ | aṅkasam | pari | dadhi-krāvṇaḥ | saha | ūrjā | taritrataḥ