Sukta 4.40
सत्वा भरिषो गविषो दुवन्यसच्छ्रवस्यादिष उषसस्तुरण्यसत् । सत्यो द्रवो द्रवरः पतंगरो दधिक्रावेषमूर्जं स्वर्जनत् ॥
सत्वा॑ भरि॒षो ग॑वि॒षो दु॑वन्य॒सच्छ्र॑व॒स्यादि॒ष उ॒षस॑स्तुरण्य॒सत् । स॒त्यो द्र॒वो द्र॑व॒रः प॑तंग॒रो द॑धि॒क्रावेष॒मूर्जं॒ स्व॑र्जनत् ॥
satvā́ bhariṣó gaviṣó duvanyásac chravasyā́d íṣa uṣásas turaṇyásat | satyó dravó dravarás pataṅgaró dadhikrā́vā íṣam ūrjáṃ svàr janat ||
A being of strength, bringing plenitude, seeking the luminous cattle (rays), he wins the desired fame; he is the impulsion of the Dawns, swift in movement. True in his running, a runner among runners, a winged-flier, Dadhikrāvan generates in us the nourishment and the force and the inner heaven-light.
सत्वा॑ । भ॒रि॒षः । गो॒ऽइ॒षः । दु॒व॒न्य॒ऽसत् । श्र॒व॒स्यात् । इ॒षः । उ॒षसः॑ । तु॒र॒ण्य॒ऽसत् । स॒त्यः । द्र॒वः । द्र॒व॒रः । प॒त॒ङ्ग॒रः । द॒धि॒ऽक्रावा॑ । इष॑म् । ऊर्ज॑म् । स्वः॑ । ज॒न॒त् ॥सत्वा । भरिषः । गोइषः । दुवन्यसत् । श्रवस्यात् । इषः । उषसः । तुरण्यसत् । सत्यः । द्रवः । द्रवरः । पतङ्गरः । दधिक्रावा । इषम् । ऊर्जम् । स्वः । जनत् ॥satvā | bhariṣaḥ | go--iṣaḥ | duvanya-sat | śravasyāt | iṣaḥ | uṣasaḥ | turaṇya-sat | satyaḥ | dravaḥ | dravaraḥ | pataṅgaraḥ | dadhi-krāvā | iṣam | ūjarm | svaḥ | janat