Sukta 4.40
दधिक्राव्ण इदु नु चर्किराम विश्वा इन्मामुषसः सूदयन्तु । अपामग्नेरुषसः सूर्यस्य बृहस्पतेराङ्गिरसस्य जिष्णोः ॥
द॒धि॒क्राव्ण॒ इदु॒ नु च॑र्किराम॒ विश्वा॒ इन्मामु॒षस॑: सूदयन्तु । अ॒पाम॒ग्नेरु॒षस॒: सूर्य॑स्य॒ बृह॒स्पते॑राङ्गिर॒सस्य॑ जि॒ष्णोः ॥
dadhikrā́vṇa íd u nú cārkirāma víśvā ín mām uṣásaḥ sūdayantu | apā́m agnér uṣásaḥ sū́ryasya bṛ́haspáter āṅgirasásya jiṣṇóḥ ||
Now indeed we would proclaim Dadhikrāvan; may all the Dawns urge me onward—Dawns of the Waters, of Agni, of the Sun, of Bṛhaspati, of the Angirasa, the victorious one.
द॒धि॒ऽक्राव्णः॑ । इत् । ऊँ॒ इति॑ । नु । चा॒र्कि॒रा॒म॒ । विश्वा॑ । इत् । माम् । उ॒षसः॑ । सू॒द॒य॒न्तु॒ । अ॒पाम् । अ॒ग्नेः । उ॒षसः॑ । सूर्य॑स्य । बृह॒स्पतेः॑ । आ॒ङ्गि॒र॒सस्य॑ । जि॒ष्णोः ॥दधिक्राव्णः । इत् । ऊँ इति । नु । चार्किराम । विश्वा । इत् । माम् । उषसः । सूदयन्तु । अपाम् । अग्नेः । उषसः । सूर्यस्य । बृहस्पतेः । आङ्गिरसस्य । जिष्णोः ॥dadhi-krāvṇaḥ | it | oṃ iti | nu | cārkirāma | viśvā | it | mām | uṣasaḥ | sūdayantu | apām | agneḥ | uṣasaḥ | sūryasya | bṛhaspateḥ | āṅgirasasya | jiṣṇoḥ