Sukta 4.38
उत स्मास्य पनयन्ति जना जूतिं कृष्टिप्रो अभिभूतिमाशोः । उतैनमाहुः समिथे वियन्तः परा दधिक्रा असरत्सहस्रैः ॥
उ॒त स्मा॑स्य पनयन्ति॒ जना॑ जू॒तिं कृ॑ष्टि॒प्रो अ॒भिभू॑तिमा॒शोः । उ॒तैन॑माहुः समि॒थे वि॒यन्त॒: परा॑ दधि॒क्रा अ॑सरत्स॒हस्रै॑: ॥
utá smā́sya panayanti jánā jūtíṃ kṛṣṭipró abhíbhūtim āśóḥ | utáinaṃ āhuḥ samíthe víyantaḥ parā́ dadhikrā́ ásarat sahásraiḥ ||
And the people celebrate his rush, the swift one’s overpowering victory that carries the communities forward. And they say of him, as he ranges in the battle: ‘Dadhikrā has sped beyond by thousands.’
उ॒त । स्म॒ । अ॒स्य॒ । प॒न॒य॒न्ति॒ । जनाः॑ । जू॒तिम् । कृ॒ष्टि॒ऽप्रः । अ॒भिऽभू॑तिम् । आ॒शोः । उ॒त । ए॒न॒म् । आ॒हुः॒ । स॒म्ऽइ॒थे । वि॒ऽयन्तः॑ । परा॑ । द॒धि॒ऽक्राः । अ॒स॒र॒त् । स॒हस्रैः॑ ॥उत । स्म । अस्य । पनयन्ति । जनाः । जूतिम् । कृष्टिप्रः । अभिभूतिम् । आशोः । उत । एनम् । आहुः । सम्इथे । वियन्तः । परा । दधिक्राः । असरत् । सहस्रैः ॥uta | sma | asya | panayanti | janāḥ | jūtim | kṛṣṭi-praḥ | abhi-bhūtim | āśoḥ | uta | enam | āhuḥ | sam-ithe | vi-yantaḥ | parā | dadhi-krāḥ | asarat | sahasraiḥ