Sukta 4.38
आ दधिक्राः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस्ततान । सहस्रसाः शतसा वाज्यर्वा पृणक्तु मध्वा समिमा वचांसि ॥
आ द॑धि॒क्राः शव॑सा॒ पञ्च॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒पस्त॑तान । स॒ह॒स्र॒साः श॑त॒सा वा॒ज्यर्वा॑ पृ॒णक्तु॒ मध्वा॒ समि॒मा वचां॑सि ॥
ā́ dadhikrā́ḥ śávasā páñca kṛṣṭī́ḥ sū́rya iva jyótiṣā́paḥ tatāna | sahasrasā́ḥ śatasā́ vājī́ árvā pṛṇáktu mádhvā sám imā́ vácāṃsi ||
May Dadhikrā, by his might, spread out the five peoples, as the Sun spreads the waters by his light. The racer, winning by thousands and hundreds, may fill these our words together with honeyed delight.
आ । द॒धि॒ऽक्राः । शव॑सा । पञ्च॑ । कृ॒ष्टीः । सूर्यः॑ऽइव । ज्योति॑षा । अ॒पः । त॒ता॒न॒ । स॒ह॒स्र॒ऽसाः । श॒त॒ऽसाः । वा॒जी । अर्वा॑ । पृ॒णक्तु॑ । मध्वा॑ । सम् । इ॒मा । वचां॑सि ॥आ । दधिक्राः । शवसा । पञ्च । कृष्टीः । सूर्यःइव । ज्योतिषा । अपः । ततान । सहस्रसाः । शतसाः । वाजी । अर्वा । पृणक्तु । मध्वा । सम् । इमा । वचांसि ॥ā | dadhi-krāḥ | śavasā | pañca | kṛṣṭīḥ | sūryaḥ-iva | jyotiṣāḥapaḥḥtatānaḥsahasra-sāḥḥśata-sāḥḥvājīḥarvāḥpṛṇaktuḥmadhvāḥsamḥimāḥvacāṃsi