Sukta 4.38
उत स्य वाजी सहुरिॠतावा शुश्रूषमाणस्तन्वा समर्ये । तुरं यतीषु तुरयन्नृजिप्योऽधि भ्रुवोः किरते रेणुमृञ्जन् ॥
उ॒त स्य वा॒जी सहु॑रिॠ॒तावा॒ शुश्रू॑षमाणस्त॒न्वा॑ सम॒र्ये । तुरं॑ य॒तीषु॑ तु॒रय॑न्नृजि॒प्योऽधि॑ भ्रु॒वोः कि॑रते रे॒णुमृ॒ञ्जन् ॥
utá syá vājī́ sáhurir ṛtá-vā śuśrū́ṣamāṇas tanvā̀ samaryé | túraṃ yatī́ṣu turáyan ṛjipyó 'dhí bhrúvoḥ kirate reṇúm ṛñján ||
And this vājī, the strong-enduring one, bearer of the Truth, eager in his body for the battle—he drives the swift among the goings; the straight-limbed one, as he rushes, flings dust above the brows, colouring himself with it.
उ॒त । स्यः । वा॒जी । सहु॑रिः । ऋ॒तऽवा॑ । शुश्रू॑षमाणः । त॒न्वा॑ । स॒ऽम॒र्ये । तुर॑म् । य॒तीषु॑ । तु॒रय॑न् । ऋ॒जि॒प्यः । अधि॑ । भ्रु॒वोः । कि॒र॒ते॒ । रे॒णुम् । ऋ॒ञ्जन् ॥उत । स्यः । वाजी । सहुरिः । ऋतवा । शुश्रूषमाणः । तन्वा । समर्ये । तुरम् । यतीषु । तुरयन् । ऋजिप्यः । अधि । भ्रुवोः । किरते । रेणुम् । ऋञ्जन् ॥uta | syaḥ | vājī | sahuriḥ | ṛta-vā | śuśrūṣamāṇaḥ | tanvā | sa-marye | turam | yatīṣu | turayan | ṛjipyaḥ | adhi | bhruvoḥ | kirate | reṇum | ṛñjan