Sukta 4.38
उत स्मासु प्रथमः सरिष्यन्नि वेवेति श्रेणिभी रथानाम् । स्रजं कृण्वानो जन्यो न शुभ्वा रेणुं रेरिहत्किरणं ददश्वान् ॥
उ॒त स्मा॑सु प्रथ॒मः स॑रि॒ष्यन्नि वे॑वेति॒ श्रेणि॑भी॒ रथा॑नाम् । स्रजं॑ कृण्वा॒नो जन्यो॒ न शुभ्वा॑ रे॒णुं रेरि॑हत्कि॒रणं॑ दद॒श्वान् ॥
utá smā́su prathamáḥ sariṣyán ní veveti śréṇibhir ráthānām | srájaṃ kṛṇvāno janyó ná śúbhvā reṇúṃ rérīhat kiráṇaṃ dádāśvān ||
And among them he is the first to surge forward; he weaves down through the ordered lines of the chariots. Making a garland as it were, like a radiant warrior, he scatters the dust in streaming rays—one who has seen and mastered the play of the light.
उ॒त । स्म॒ । आ॒सु । प्र॒थ॒मः । स॒रि॒ष्यन् । नि । वे॒वे॒ति॒ । श्रेणि॑ऽभिः । रथा॑नाम् । स्रज॑म् । कृ॒ण्वा॒नः । जन्यः॑ । न । शुभ्वा॑ । रे॒णुम् । रेरि॑हत् । कि॒रण॑म् । द॒द॒श्वान् ॥उत । स्म । आसु । प्रथमः । सरिष्यन् । नि । वेवेति । श्रेणिभिः । रथानाम् । स्रजम् । कृण्वानः । जन्यः । न । शुभ्वा । रेणुम् । रेरिहत् । किरणम् । ददश्वान् ॥uta | sma | āsu | prathamaḥ | sariṣyan | ni | veveti | śreṇi-bhiḥ | rathānām | srajam | kṛṇvānaḥ | janyaḥ | na | śubhvā | reṇum | rerihat | kiraṇam | dṛśvān