Sukta 4.38
उत स्मैनं वस्त्रमथिं न तायुमनु क्रोशन्ति क्षितयो भरेषु । नीचायमानं जसुरिं न श्येनं श्रवश्चाच्छा पशुमच्च यूथम् ॥
उ॒त स्मै॑नं वस्त्र॒मथिं॒ न ता॒युमनु॑ क्रोशन्ति क्षि॒तयो॒ भरे॑षु । नी॒चाय॑मानं॒ जसु॑रिं॒ न श्ये॒नं श्रव॒श्चाच्छा॑ पशु॒मच्च॑ यू॒थम् ॥
utá smainaṃ vastramáthim ná tāyúm ánu krośanti kṣitáyo bháreṣu | nīcā́yamānaṃ jásuriṃ ná śyénam śrávaś cā́cchā paśumác ca yū́tham ||
And the peoples cry after him in the clashes, as after a plunderer who tears away the covering; like a hawk swooping low, he presses forward—towards fame and towards the herd that is rich in the powers of life.
उ॒त । स्म॒ । ए॒न॒म् । व॒स्त्र॒ऽमथि॑म् । न । ता॒युम् । अनु॑ । क्रो॒श॒न्ति॒ । क्षि॒तयः॑ । भरे॑षु । नी॒चा । अय॑मानम् । जसु॑रिम् । न । श्ये॒नम् । श्रवः॑ । च॒ । अच्छ॑ । प॒शु॒ऽमत् । च॒ । यू॒थम् ॥उत । स्म । एनम् । वस्त्रमथिम् । न । तायुम् । अनु । क्रोशन्ति । क्षितयः । भरेषु । नीचा । अयमानम् । जसुरिम् । न । श्येनम् । श्रवः । च । अच्छ । पशुमत् । च । यूथम् ॥uta | sma | enam | vastra-mathim | na | tāyum | anu | krośanti | kṣitayaḥ | bhareṣu | nīcā | ayamānam | jasurim | na | śyenam | śravaḥ | ca | accha | paśu-mat | ca | yūtham