Sukta 4.38
यः स्मारुन्धानो गध्या समत्सु सनुतरश्चरति गोषु गच्छन् । आविॠजीको विदथा निचिक्यत्तिरो अरतिं पर्याप आयोः ॥
यः स्मा॑रुन्धा॒नो गध्या॑ स॒मत्सु॒ सनु॑तर॒श्चर॑ति॒ गोषु॒ गच्छ॑न् । आ॒विॠ॑जीको वि॒दथा॑ नि॒चिक्य॑त्ति॒रो अ॑र॒तिं पर्याप॑ आ॒योः ॥
yáḥ smā́rundhāno gádhyā samátsu sánutaras cárati góṣu gácchan | āvír-ṛjī́ko vidáthā nicíkyat tíro aratíṃ páry ā́pa āyóḥ ||
He who, holding fast the firm line in the battles, moves ever forward, going among the Rays (cows); manifest in straight-going energy, he has perceived the workings of the sacrifice and passes beyond incapacity, encompassing the metal-strong might.
यः । स्म॒ । आ॒ऽरु॒न्धा॒नः । गध्या॑ । स॒मत्ऽसु॑ । सनु॑ऽतरः । चर॑ति । गोषु॑ । गच्छ॑न् । आ॒विःऽऋ॑जीकः । वि॒दथा॑ । नि॒ऽचिक्य॑त् । ति॒रः । अ॒र॒तिम् । परि॑ । आपः॑ । आ॒योः ॥यः । स्म । आरुन्धानः । गध्या । समत्सु । सनुतरः । चरति । गोषु । गच्छन् । आविःऋजीकः । विदथा । निचिक्यत् । तिरः । अरतिम् । परि । आपः । आयोः ॥yaḥ | sma | ārundhānaḥ | gadhyā | samat-su | sanu-taraḥ | carati | goṣu | gacchan | āviḥ-ṛjīkaḥ | vidathā | ni-cikyat | tiraḥ | aratim | pari | āpaḥ | āyoḥ