Sukta 4.38
यं सीमनु प्रवतेव द्रवन्तं विश्वः पूरुर्मदति हर्षमाणः । पड्भिर्गृध्यन्तं मेधयुं न शूरं रथतुरं वातमिव ध्रजन्तम् ॥
यं सी॒मनु॑ प्र॒वते॑व॒ द्रव॑न्तं॒ विश्व॑: पू॒रुर्मद॑ति॒ हर्ष॑माणः । प॒ड्भिर्गृध्य॑न्तं मेध॒युं न शूरं॑ रथ॒तुरं॒ वात॑मिव॒ ध्रज॑न्तम् ॥
yám sīm ánu praváteva drávantaṃ víśvaḥ pūrúr mádati hárṣamāṇaḥ | paḍbhír gṛ́dhyantaṃ medháyuṃ ná śū́raṃ rathatúraṃ vā́tam iva dhrájantam ||
He whom all the many peoples follow, rejoicing, as he rushes like a stream down a slope; the wise strength in him is desired by the feet (the powers of movement): a hero of understanding, conquering by the chariot-force, vibrating like the Wind.
यम् । सी॒म् । अनु॑ । प्र॒वता॑ऽइव । द्रव॑न्तम् । विश्वः॑ । पू॒रुः । मद॑ति । हर्ष॑माणः । प॒ट्ऽभिः । गृध्य॑न्तम् । मे॒ध॒ऽयुम् । न । शूर॑म् । र॒थ॒ऽतुर॑म् । वात॑म्ऽइव । ध्रज॑न्तम् ॥यम् । सीम् । अनु । प्रवताइव । द्रवन्तम् । विश्वः । पूरुः । मदति । हर्षमाणः । पट्भिः । गृध्यन्तम् । मेधयुम् । न । शूरम् । रथतुरम् । वातम्इव । ध्रजन्तम् ॥yam | sīm | anu | pravatāiva | dravantam | viśvaḥ | pūruḥ | madati | harṣamāṇaḥ | paṭ-bhiḥ | gṛdhyantam | medha-yum | na | śūram | ratha-turam | vātam-iva | dhrajantam