Sukta 4.38
उत वाजिनं पुरुनिष्षिध्वानं दधिक्रामु ददथुर्विश्वकृष्टिम् । ऋजिप्यं श्येनं प्रुषितप्सुमाशुं चर्कृत्यमर्यो नृपतिं न शूरम् ॥
उ॒त वा॒जिनं॑ पुरुनि॒ष्षिध्वा॑नं दधि॒क्रामु॑ ददथुर्वि॒श्वकृ॑ष्टिम् । ऋ॒जि॒प्यं श्ये॒नं प्रु॑षि॒तप्सु॑मा॒शुं च॒र्कृत्य॑म॒र्यो नृ॒पतिं॒ न शूर॑म् ॥
utá vā́jinaṃ puruniṣṣídhvānaṃ dadhikrā́m u dadathur viśvákṛṣṭim | ṛjipyáṃ śyénam pruṣitápsum āśúṃ carkṛ́tyam aryó nṛpátiṃ na śū́ram ||
And you gave the racer, Dadhikrāvan—manifold in his perfect achievements, belonging to all peoples. A straight-flying falcon, speckled and swift, tirelessly circling—like a noble lord of men, like a hero: so is that power you established.
उ॒त । वा॒जिन॑म् । पु॒रु॒निः॒ऽसिध्वा॑नम् । द॒धि॒ऽक्राम् । ऊँ॒ इति॑ । द॒द॒थुः॒ । वि॒श्वऽकृ॑ष्टिम् । ऋ॒जि॒प्यम् । श्ये॒नम् । प्रु॒षि॒तऽप्सु॑म् । आ॒शुम् । च॒र्कृत्य॑म् । अ॒र्यः । नृ॒ऽपति॑म् । न । शूर॑म् ॥उत । वाजिनम् । पुरुनिःसिध्वानम् । दधिक्राम् । ऊँ इति । ददथुः । विश्वकृष्टिम् । ऋजिप्यम् । श्येनम् । प्रुषितप्सुम् । आशुम् । चर्कृत्यम् । अर्यः । नृपतिम् । न । शूरम् ॥uta | vājinam | puruniḥ-sidhvānam | dadhi-krām | oṃ iti | dadathuḥ | viśva-kṛṣtim | ṛjipyam | śyenam | pruṣita-psum | āśum | carkṛtyam | aryaḥ | nṛ-patim | na | śūram