Sukta 4.38
उतो हि वां दात्रा सन्ति पूर्वा या पूरुभ्यस्त्रसदस्युर्नितोशे । क्षेत्रासां ददथुरुर्वरासां घनं दस्युभ्यो अभिभूतिमुग्रम् ॥
उ॒तो हि वां॑ दा॒त्रा सन्ति॒ पूर्वा॒ या पू॒रुभ्य॑स्त्र॒सद॑स्युर्नितो॒शे । क्षे॒त्रा॒सां द॑दथुरुर्वरा॒सां घ॒नं दस्यु॑भ्यो अ॒भिभू॑तिमु॒ग्रम् ॥
utó hí vāṃ dātrā́ sánti pū́rvā yā́ pū́rubhyas trasádasyur nitóśe | kṣetrā́sāṃ dadathur urvarā́sāṃ ghanáṃ dasyúbhyo abhíbhūtim ugrám ||
For yours indeed are the ancient gifts—those by which Trasadasyu, for the Pūrūs, won firm settlement. You gave them fields and broad fertile spaces, and against the dark-hosts you set a crushing, overpowering force.
उ॒तो इति॑ । हि । वा॒म् । दा॒त्रा । सन्ति॑ । पूर्वा॑ । या । पू॒रुऽभ्यः॑ । त्र॒सद॑स्युः । नि॒ऽतो॒शे । क्षे॒त्र॒ऽसाम् । दा॒द॒थुः॒ । उ॒र्व॒रा॒ऽसाम् । घ॒नम् । दस्यु॑ऽभ्यः । अ॒भिऽभू॑तिम् । उ॒ग्रम् ॥उतो इति । हि । वाम् । दात्रा । सन्ति । पूर्वा । या । पूरुभ्यः । त्रसदस्युः । नितोशे । क्षेत्रसाम् । दादथुः । उर्वरासाम् । घनम् । दस्युभ्यः । अभिभूतिम् । उग्रम् ॥uto iti | hi | vām | dātrā | santi | pūrvā | yā | pūru-bhyaḥ | trasadasyuḥ | ni-tośe | kṣetra-sām | dādathuḥ | urvarāsām | ghanam | dasyu-bhyaḥ | abhi-bhūtim | ugram