Sukta 4.37
वि नो वाजा ऋभुक्षणः पथश्चितन यष्टवे । अस्मभ्यं सूरयः स्तुता विश्वा आशास्तरीषणि ॥
वि नो॑ वाजा ऋभुक्षणः प॒थश्चि॑तन॒ यष्ट॑वे । अ॒स्मभ्यं॑ सूरयः स्तु॒ता विश्वा॒ आशा॑स्तरी॒षणि॑ ॥
ví no vājā ṛbhukṣaṇaḥ patháś citana yáṣṭave | asmábhyaṃ sūrayaḥ stutā́ víśvā ā́śās tarī́ṣaṇi ||
Open out for us, O Vājas, O Ṛbhukṣaṇa, the paths for our offering. O seer-powers, praised by us, carry us across all the directions of hope and possibility.
वि । नः॒ । वा॒जाः॒ । ऋ॒भु॒क्ष॒णः॒ । प॒थः । चि॒त॒न॒ । यष्ट॑वे । अ॒स्मभ्य॑म् । सू॒र॒यः॒ । स्तु॒ताः । विश्वाः॑ । आशाः॑ । त॒री॒षणि॑ ॥वि । नः । वाजाः । ऋभुक्षणः । पथः । चितन । यष्टवे । अस्मभ्यम् । सूरयः । स्तुताः । विश्वाः । आशाः । तरीषणि ॥vi | naḥ | vājāḥ | ṛbhukṣaṇaḥ | pathaḥ | citana | yaṣṭave | asmabhyam | sūrayaḥ | stutāḥ | viśvāḥ | āśāḥ | tarīṣaṇi