Sukta 4.37
तं नो वाजा ऋभुक्षण इन्द्र नासत्या रयिम् । समश्वं चर्षणिभ्य आ पुरु शस्त मघत्तये ॥
तं नो॑ वाजा ऋभुक्षण॒ इन्द्र॒ नास॑त्या र॒यिम् । समश्वं॑ चर्ष॒णिभ्य॒ आ पु॒रु श॑स्त म॒घत्त॑ये ॥
táṃ no vājā ṛbhukṣaṇa índra nā́satyā rayím | sám aśváṃ carṣaṇíbhya ā́ purú śasta magháttaye ||
That plenitude (rayi) for us, O Vājas, O Ṛbhukṣaṇa—O Indra, O Nāsatyas—bring together with the steed of energy for the peoples. Praise it widely, so that the power of generous giving may grow.
तम् । नः॒ । वा॒जाः॒ । ऋ॒भु॒क्ष॒णः॒ । इन्द्र॑ । नास॑त्या । र॒यिम् । सम् । अश्व॑म् । च॒र्ष॒णिऽभ्यः॑ । आ । पु॒रु । श॒स्त॒ । म॒घत्त॑ये ॥तम् । नः । वाजाः । ऋभुक्षणः । इन्द्र । नासत्या । रयिम् । सम् । अश्वम् । चर्षणिभ्यः । आ । पुरु । शस्त । मघत्तये ॥tam | naḥ | vājāḥ | ṛbhukṣaṇaḥ | indra | nāsatyā | rayim | sam | aśvam | carṣaṇi-bhyaḥ | ā | puru | śasta | maghattaye