Sukta 4.37
पीवोअश्वाः शुचद्रथा हि भूतायःशिप्रा वाजिनः सुनिष्काः । इन्द्रस्य सूनो शवसो नपातोऽनु वश्चेत्यग्रियं मदाय ॥
पीवो॑अश्वाः शु॒चद्र॑था॒ हि भू॒ताय॑:शिप्रा वाजिनः सुनि॒ष्काः । इन्द्र॑स्य सूनो शवसो नपा॒तोऽनु॑ वश्चेत्यग्रि॒यं मदा॑य ॥
pī́vo’aśvāḥ śucádrathā hí bhūtā́yaḥśiprā vājinaḥ suniṣkā́ḥ | índrasya sū́no śávasaḥ napā́to’ánu vaś cety agriyáṃ madā́ya ||
Rich-horsed, bright-charioted you have become—iron-jawed, forceful, bearing the fair prize. O sons of Indra’s might, descendants of Power, may the foremost rapture move in your wake for the ecstasy of the work.
पीवः॑ऽअश्वाः । शु॒चत्ऽऽर॑थाः । हि । भू॒त । आयः॑ऽशिप्राः । वा॒जि॒नः॒ । सु॒ऽनि॒ष्काः । इन्द्र॑स्य । सू॒नः॒ । श॒व॒सः॒ । न॒पा॒तः॒ । अनु॑ । वः॒ । चे॒ति॒ । अ॒ग्रि॒यम् । मदा॑य ॥पीवःअश्वाः । शुचत्रथाः । हि । भूत । आयःशिप्राः । वाजिनः । सुनिष्काः । इन्द्रस्य । सूनः । शवसः । नपातः । अनु । वः । चेति । अग्रियम् । मदाय ॥pīvaḥ-aśvāḥ | śucat--rathāḥ | hi | bhūta | āyaḥ-śiprāḥ | vājinaḥ | su-niṣkāḥ | indrasya | sūnaḥ | śavasaḥ | napātaḥ | anu | vaḥ | ceti | agriyam | madāya