Sukta 4.37
ते वो हृदे मनसे सन्तु यज्ञा जुष्टासो अद्य घृतनिर्णिजो गुः । प्र वः सुतासो हरयन्त पूर्णाः क्रत्वे दक्षाय हर्षयन्त पीताः ॥
ते वो॑ हृ॒दे मन॑से सन्तु य॒ज्ञा जुष्टा॑सो अ॒द्य घृ॒तनि॑र्णिजो गुः । प्र व॑: सु॒तासो॑ हरयन्त पू॒र्णाः क्रत्वे॒ दक्षा॑य हर्षयन्त पी॒ताः ॥
té vo hṛdé mánase santu yajñā́ juṣṭā́so adyá ghṛtánirnijo guḥ | prá vaḥ sutā́so harayanta pūrṇā́ḥ krátve dákṣāya harṣayanta pītā́ḥ ||
May the offerings be in your heart and mind—welcome today, shining with the clarity of the anointed Light. Let the pressed Soma-currents, full and overflowing, stream forth for your will and your discerning power; drunk, they make the inner energies rejoice.
ते । वः॒ । ह्र॒दे । मन॑से । स॒न्तु॒ । य॒ज्ञाः । जुष्टा॑सः । अ॒द्य । घृ॒तऽनि॑र्निजः । गुः॒ । प्र । वः॒ । सु॒तासः॑ । ह॒र॒य॒न्त॒ । पू॒र्णाः । क्रत्वे॑ । दक्षा॑य । ह॒र्ष॒य॒न्त॒ । पी॒ताः ॥ते । वः । ह्रदे । मनसे । सन्तु । यज्ञाः । जुष्टासः । अद्य । घृतनिर्निजः । गुः । प्र । वः । सुतासः । हरयन्त । पूर्णाः । क्रत्वे । दक्षाय । हर्षयन्त । पीताः ॥te | vaḥ | hrade | manase | santu | yajñāḥ | juṣṭāsaḥ | adya | ghṛta-nirnijaḥ | guḥ | pra | vaḥ | sutāsaḥ | harayanta | pūrṇāḥ | kratve | dakṣāya | harṣayanta | pītāḥ