Sukta 4.37
उप नो वाजा अध्वरमृभुक्षा देवा यात पथिभिर्देवयानैः । यथा यज्ञं मनुषो विक्ष्वासु दधिध्वे रण्वाः सुदिनेष्वह्नाम् ॥
उप॑ नो वाजा अध्व॒रमृ॑भुक्षा॒ देवा॑ या॒त प॒थिभि॑र्देव॒यानै॑: । यथा॑ य॒ज्ञं मनु॑षो वि॒क्ष्वा॒३॒॑सु द॑धि॒ध्वे र॑ण्वाः सु॒दिने॒ष्वह्ना॑म् ॥
úpa no vājā adhvarám ṛbhukṣā devā yāta pathíbhir devayā́naiḥ | yáthā yajñáṃ mánuṣo vikṣvā̀su dadhidhvé raṇvāḥ sudíneṣv áhnām ||
Come near to our offering, O Vājas, O Ṛbhukṣaṇas, O bright Powers; travel by the godward paths. As you have set the sacrifice in motion among the human clans, so establish it again—delightful—for us in the fair days of our life.
उप॑ । नः॒ । वा॒जाः॒ । अ॒ध्व॒रम् । ऋ॒भु॒क्षाः॒ । देवाः॑ । या॒त । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ । यथा॑ । य॒ज्ञम् । मनु॑षः । वि॒क्षु । आ॒सु । द॒धि॒ध्वे । र॒ण्वाः॒ । सु॒ऽदिने॑षु । अह्ना॑म् ॥उप । नः । वाजाः । अध्वरम् । ऋभुक्षाः । देवाः । यात । पथिभिः । देवयानैः । यथा । यज्ञम् । मनुषः । विक्षु । आसु । दधिध्वे । रण्वाः । सुदिनेषु । अह्नाम् ॥upa | naḥ | vājāḥ | adhvaram | ṛbhukṣāḥ | devāḥ | yāta | pathi-bhiḥ | deva-yānaiḥ | yathā | yajñam | manuṣaḥ | vikṣu | āsu | dadhidhve | raṇvāḥ | su-dineṣu | ahnām