Sukta 4.36
यूयमस्मभ्यं धिषणाभ्यस्परि विद्वांसो विश्वा नर्याणि भोजना । द्युमन्तं वाजं वृषशुष्ममुत्तममा नो रयिमृभवस्तक्षता वयः ॥
यू॒यम॒स्मभ्यं॑ धि॒षणा॑भ्य॒स्परि॑ वि॒द्वांसो॒ विश्वा॒ नर्या॑णि॒ भोज॑ना । द्यु॒मन्तं॒ वाजं॒ वृष॑शुष्ममुत्त॒ममा नो॑ र॒यिमृ॑भवस्तक्ष॒ता वय॑: ॥
yūyám asmábhyaṃ dhiṣáṇābhyas pári vidvā́ṃso víśvā naryā́ṇi bhójanā | dyumántaṃ vājáṃ vṛ́ṣaśuṣmam uttamáṃ ā́ no rayím ṛbhavas takṣatā́ váyaḥ ||
You, knowing ones, from the dhīṣaṇā-powers all around, enjoy all the manly energies. Fashion for us a radiant plenitude (vāja), with bull-like force, the highest; and fashion for us, O Rbhus, the rayi—our growth and fullness of life.
यू॒यम् । अ॒स्मभ्य॑म् । धि॒षणा॑भ्यः । परि॑ । वि॒द्वांसः॑ । विश्वा॑ । नर्या॑णि । भोज॑ना । द्यु॒ऽमन्त॑म् । वाज॑म् । वृष॑ऽशुष्मम् । उ॒त्ऽत॒मम् । आ । नः॒ । र॒यिम् । ऋ॒भ॒वः॒ । त॒क्ष॒त॒ । आ । वयः॑ ॥यूयम् । अस्मभ्यम् । धिषणाभ्यः । परि । विद्वांसः । विश्वा । नर्याणि । भोजना । द्युमन्तम् । वाजम् । वृषशुष्मम् । उत्तमम् । आ । नः । रयिम् । ऋभवः । तक्षत । आ । वयः ॥yūyam | asmabhyam | dhiṣaṇābhyaḥ | pari | vidvāṃsaḥ | viśvā | naryāṇi | bhojanā | dyu-mantam | vājam | vṛṣa-śuṣmam | ut-tamam | ā | naḥ | rayim | ṛbhavaḥ | takṣata | ā | vayaḥ