Sukta 4.36
श्रेष्ठं वः पेशो अधि धायि दर्शतं स्तोमो वाजा ऋभवस्तं जुजुष्टन । धीरासो हि ष्ठा कवयो विपश्चितस्तान्व एना ब्रह्मणा वेदयामसि ॥
श्रेष्ठं॑ व॒: पेशो॒ अधि॑ धायि दर्श॒तं स्तोमो॑ वाजा ऋभव॒स्तं जु॑जुष्टन । धीरा॑सो॒ हि ष्ठा क॒वयो॑ विप॒श्चित॒स्तान्व॑ ए॒ना ब्रह्म॒णा वे॑दयामसि ॥
śréṣṭhaṃ vaḥ péśo ádhi dhāyi darśatáṃ stómō vājā ṛbhavas táṃ jujuṣṭana | dhī́rāso hí sthā́ kaváyo vipaścítas tā́n va enā́ bráhmaṇā vedayāmasi ||
Your best form of beauty has been set here, visible: the hymn, O Vāja and Rbhus—take delight in it. For you are indeed the steady wise ones, poets of luminous discernment; by this sacred utterance (brahman) we make you present to our awareness.
श्रेष्ठ॑म् । वः॒ । पेशः॑ । अधि॑ । धा॒यि॒ । द॒र्श॒तम् । स्तोमः॑ । वा॒जाः॒ । ऋ॒भ॒वः॒ । तम् । जु॒जु॒ष्ट॒न॒ । धीरा॑सः । हि । स्थ । क॒वयः॑ । वि॒पः॒ऽचितः॑ । तान् । वः॒ । ए॒ना । ब्रह्म॑णा । आ । वे॒द॒या॒म॒सि॒ ॥श्रेष्ठम् । वः । पेशः । अधि । धायि । दर्शतम् । स्तोमः । वाजाः । ऋभवः । तम् । जुजुष्टन । धीरासः । हि । स्थ । कवयः । विपःचितः । तान् । वः । एना । ब्रह्मणा । आ । वेदयामसि ॥śreṣṭham | vaḥ | peśaḥ | adhi | dhāyi | darśatam | stomaḥ | vājāḥ | ṛbhavaḥ | tam | jujuṣṭana | dhīrāsaḥ | hi | stha | kavayaḥ | vipaḥ-citaḥ | tān | vaḥ | enā | brahmaṇā | ā | vedayāmasi