Sukta 4.36
इह प्रजामिह रयिं रराणा इह श्रवो वीरवत्तक्षता नः । येन वयं चितयेमात्यन्यान्तं वाजं चित्रमृभवो ददा नः ॥
इ॒ह प्र॒जामि॒ह र॒यिं ररा॑णा इ॒ह श्रवो॑ वी॒रव॑त्तक्षता नः । येन॑ व॒यं चि॒तये॒मात्य॒न्यान्तं वाजं॑ चि॒त्रमृ॑भवो ददा नः ॥
ihá prajā́m ihá rayíṃ rárāṇā ihá śrávo vī́ravat takṣatā naḥ | yéna vayáṃ citáyemā́ti anyā́n táṃ vājáṃ citrám ṛbhavo dadā naḥ ||
Here, in this very life, delighting in us, fashion for us progeny of the soul, fashion for us inner wealth, fashion for us fame rich in heroic force—by which we may become conscious beyond others. That many-colored plenitude of victory, O Rbhus, grant to us.
इ॒ह । प्र॒ऽजाम् । इ॒ह । र॒यिम् । ररा॑णाः । इ॒ह । श्रवः॑ । वी॒रऽव॑त् । त॒क्ष॒त॒ । नः॒ । येन॑ । व॒यम् । चि॒तये॑म । अति॑ । अ॒न्यान् । तम् । वाज॑म् । चि॒त्रम् । ऋ॒भ॒वः॒ । द॒द॒ । नः॒ ॥इह । प्रजाम् । इह । रयिम् । रराणाः । इह । श्रवः । वीरवत् । तक्षत । नः । येन । वयम् । चितयेम । अति । अन्यान् । तम् । वाजम् । चित्रम् । ऋभवः । दद । नः ॥iha | pra-jām | iha | rayim | rarāṇāḥ | iha | śravaḥ | vīra-vat | takṣata | naḥ | yena | vayam | citayema | ati | anyān | tam | vājam | citram | ṛbhavaḥ | dada | naḥ