Sukta 4.36
स वाज्यर्वा स ऋषिर्वचस्यया स शूरो अस्ता पृतनासु दुष्टरः । स रायस्पोषं स सुवीर्यं दधे यं वाजो विभ्वाँ ऋभवो यमाविषुः ॥
स वा॒ज्यर्वा॒ स ऋषि॑र्वच॒स्यया॒ स शूरो॒ अस्ता॒ पृत॑नासु दु॒ष्टर॑: । स रा॒यस्पोषं॒ स सु॒वीर्यं॑ दधे॒ यं वाजो॒ विभ्वाँ॑ ऋ॒भवो॒ यमावि॑षुः ॥
sá vājý arvā́ sá ṛ́ṣir vacasyáyā sá śū́ro ástā pṛ́tanāsu dúṣṭaraḥ | sá rāyás póṣaṃ sá su-vī́ryaṃ dadhē yáṃ vājó víbhvāṃ ṛbhávo yám ā́viṣuḥ ||
He becomes the carrier of plenitude, the swift steed; he becomes the seer by the power of inspired speech; he becomes the hero, a hard-to-cross combatant in the inner battles. He holds the increase of inner wealth and true hero-force—he whom Vāja and the pervading Rbhus have made manifest.
सः । वा॒जी । अर्वा॑ । सः । ऋषिः॑ । व॒च॒स्यया॑ । सः । शूरः॑ । अस्ता॑ । पृत॑नासु । दु॒स्तरः॑ । सः । रा॒यः । पोष॑म् । सः । सु॒ऽवीर्य॑म् । दधे॑ । यम् । वाजः॑ । विऽभ्वा॑ । ऋ॒भवः॑ । यम् । आवि॑षुः ॥सः । वाजी । अर्वा । सः । ऋषिः । वचस्यया । सः । शूरः । अस्ता । पृतनासु । दुस्तरः । सः । रायः । पोषम् । सः । सुवीर्यम् । दधे । यम् । वाजः । विभ्वा । ऋभवः । यम् । आविषुः ॥saḥ | vājī | arvā | saḥ | ṛṣiḥ | vacasyayā | saḥ | śūraḥ | astā | pṛtanāsu | dustaraḥ | saḥ | rāyaḥ | poṣam | saḥ | su-vīryam | dadhe | yam | vājaḥ | vi-bhvā | ṛbhavaḥ | yam | āviṣuḥ