Sukta 4.36
ऋभुतो रयिः प्रथमश्रवस्तमो वाजश्रुतासो यमजीजनन्नरः । विभ्वतष्टो विदथेषु प्रवाच्यो यं देवासोऽवथा स विचर्षणिः ॥
ऋ॒भु॒तो र॒यिः प्र॑थ॒मश्र॑वस्तमो॒ वाज॑श्रुतासो॒ यमजी॑जन॒न्नर॑: । वि॒भ्व॒त॒ष्टो वि॒दथे॑षु प्र॒वाच्यो॒ यं दे॑वा॒सोऽव॑था॒ स विच॑र्षणिः ॥
ṛbhutó rayíḥ prathamáśravastamo vājáśrutāso yám ajī́janan nárāḥ | vibhva-táṣṭo vidáthēṣu pra-vā́cyo yáṃ devā́so’vathā́ sá vícarṣaṇiḥ ||
The wealth (rayi) born of Rbhu-skill is most first in fame; it is that which the manly powers, famed for plenitude, have generated. Fashioned by Vibhu, it is to be proclaimed in the assemblies; him the gods aid—he becomes a wide-ranging possessor of vision and force.
ऋ॒भु॒तः । र॒यिः । प्र॒थ॒मश्र॑वःऽतमः । वाज॑ऽश्रुतासः । यम् । अजी॑जनन् । नरः॑ । वि॒भ्व॒ऽत॒ष्टः । वि॒दथे॑षु । प्र॒ऽवाच्यः॑ । यम् । दे॒वा॒सः । अव॑थ । सः । विऽच॑र्षणिः ॥ऋभुतः । रयिः । प्रथमश्रवःतमः । वाजश्रुतासः । यम् । अजीजनन् । नरः । विभ्वतष्टः । विदथेषु । प्रवाच्यः । यम् । देवासः । अवथ । सः । विचर्षणिः ॥ṛbhutaḥ | rayiḥ | prathamaśravaḥ-tamaḥ | vāja-śrutāsaḥ | yam | ajījanan | naraḥ | vibhva-taṣṭaḥ | vidatheṣu | pra-vācyaḥ | yam | devāsaḥ | avatha | saḥ | vi-carṣaṇiḥ