Sukta 4.36
एकं वि चक्र चमसं चतुर्वयं निश्चर्मणो गामरिणीत धीतिभिः । अथा देवेष्वमृतत्वमानश श्रुष्टी वाजा ऋभवस्तद्व उक्थ्यम् ॥
एकं॒ वि च॑क्र चम॒सं चतु॑र्वयं॒ निश्चर्म॑णो॒ गाम॑रिणीत धी॒तिभि॑: । अथा॑ दे॒वेष्व॑मृत॒त्वमा॑नश श्रु॒ष्टी वा॑जा ऋभव॒स्तद्व॑ उ॒क्थ्य॑म् ॥
ékaṃ ví cakra camasáṃ catúrvayaṃ níś carmaṇó gā́m ariṇīta dhītíbhíḥ | áthā devéṣv amṛtatvám ānaśa śruśṭī́ vājā ṛbhavas tád va ukthyàm ||
You made the one cup into four; and from hide you brought forth the Cow by your thought-forces. Then you attained immortality among the gods. O Śruṣṭī, Vāja, and Rbhus—this is your hymn-worthy deed.
एक॒म् । वि । च॒क्र॒ । च॒म॒सम् । चतुः॑ऽवयम् । निः । चर्म॑णः । गाम् । अ॒रि॒णी॒त॒ । धी॒तिऽभिः॑ । अथ॑ । दे॒वेषु॑ । अ॒मृ॒त॒ऽत्वम् । आ॒न॒श॒ । श्रु॒श्टी । वा॒जाः॒ । ऋ॒भ॒वः॒ । तत् । वः॒ । उ॒क्थ्य॑म् ॥एकम् । वि । चक्र । चमसम् । चतुःवयम् । निः । चर्मणः । गाम् । अरिणीत । धीतिभिः । अथ । देवेषु । अमृतत्वम् । आनश । श्रुश्टी । वाजाः । ऋभवः । तत् । वः । उक्थ्यम् ॥ekam | vi | cakra | camasam | catuḥ-vayam | niḥ | carmaṇaḥ | gām | ariṇīta | dhīti-bhiḥ | atha | deveṣu | amṛta-tvam | ānaśa | śruśṭī | vājāḥ | ṛbhavaḥ | tat | vaḥ | ukthyam