Sukta 4.36
रथं ये चक्रुः सुवृतं सुचेतसोऽविह्वरन्तं मनसस्परि ध्यया । ताँ ऊ न्वस्य सवनस्य पीतय आ वो वाजा ऋभवो वेदयामसि ॥
रथं॒ ये च॒क्रुः सु॒वृतं॑ सु॒चेत॒सोऽवि॑ह्वरन्तं॒ मन॑स॒स्परि॒ ध्यया॑ । ताँ ऊ॒ न्व१॒॑स्य सव॑नस्य पी॒तय॒ आ वो॑ वाजा ऋभवो वेदयामसि ॥
ráthaṃ ye cakrúḥ su-vṛ́taṃ su-cétaso’ví-hvarantaṃ mánasaḥ pári dhyayā́ | tā́n ū́ nv asyá sávanasya pītáye ā́ vo vājā ṛbhavo vedayāmasi ||
You who made the chariot well-turned, O clear-minded ones—unwavering, shaped by the surrounding meditation of the mind—those very powers we now summon for the drinking of this Soma-pressing, O Vāja and Rbhus; we make you known here (to our consciousness).
रथ॑म् । ये । च॒क्रुः । सु॒ऽवृत॑म् । सु॒ऽचेत॑सः । अवि॑ऽह्वरन्तम् । मन॑सः । परि॑ । ध्यया॑ । तान् । ऊँ॒ इति॑ । नु । अ॒स्य । सव॑नस्य । पी॒तये॑ । आ । वः॒ । वा॒जाः॒ । ऋ॒भ॒वः॒ । वे॒द॒या॒म॒सि॒ ॥रथम् । ये । चक्रुः । सुवृतम् । सुचेतसः । अविह्वरन्तम् । मनसः । परि । ध्यया । तान् । ऊँ इति । नु । अस्य । सवनस्य । पीतये । आ । वः । वाजाः । ऋभवः । वेदयामसि ॥ratham | ye | cakruḥ | su-vṛtam | su-cetasaḥ | avi-hvarantam | manasaḥ | pari | dhyayā | tān | oṃ iti | nu | asya | savanasya | pītaye | ā | vaḥ | vājāḥ | ṛbhavaḥ | vedayāmasi