Sukta 4.35
ये देवासो अभवता सुकृत्या श्येना इवेदधि दिवि निषेद । ते रत्नं धात शवसो नपातः सौधन्वना अभवतामृतासः ॥
ये दे॒वासो॒ अभ॑वता सुकृ॒त्या श्ये॒ना इ॒वेदधि॑ दि॒वि नि॑षे॒द । ते रत्नं॑ धात शवसो नपात॒: सौध॑न्वना॒ अभ॑वता॒मृता॑सः ॥
yé devā́so ábhavatā sukṛtyā́ śyenā́ ivéd ádhi diví niṣédá | té rátnam dhāta śaváso napātaḥ saudhánvanā ábhavatāmṛ́tāsaḥ ||
You who by right perfection became gods, like falcons you took your seat upon the heaven. Therefore set the treasure, O offspring of Force, O Saudhanvanas; become for us the deathless powers—establishing in the human the immortal gain.
ये । दे॒वासः॑ । अभ॑वत । सु॒ऽकृ॒त्या । श्ये॒नाःऽइ॑व । इत् । अधि॑ । दि॒वि । नि॒ऽसे॒द । ते । रत्न॑म् । धा॒त॒ । श॒व॒सः॒ । न॒पा॒तः॒ । सौध॑न्वनाः । अभ॑वत । अ॒मृता॑सः ॥ये । देवासः । अभवत । सुकृत्या । श्येनाःइव । इत् । अधि । दिवि । निसेद । ते । रत्नम् । धात । शवसः । नपातः । सौधन्वनाः । अभवत । अमृतासः ॥ye | devāsaḥ | abhavata | su-kṛtyā | śyenāḥ-iva | it | adhi | divi | ni-seda | te | ratnam | dhāta | śavasaḥ | napātaḥ | saudhanvanāḥ | abhavata | amṛtāsaḥ