Sukta 4.35
प्रातः सुतमपिबो हर्यश्व माध्यंदिनं सवनं केवलं ते । समृभुभिः पिबस्व रत्नधेभिः सखीँर्याँ इन्द्र चकृषे सुकृत्या ॥
प्रा॒तः सु॒तम॑पिबो हर्यश्व॒ माध्यं॑दिनं॒ सव॑नं॒ केव॑लं ते । समृ॒भुभि॑: पिबस्व रत्न॒धेभि॒: सखीँ॒र्याँ इ॑न्द्र चकृ॒षे सु॑कृ॒त्या ॥
prātáḥ sutám apibo haryáśva mā́dhyandinaṃ sávanaṃ kévalaṃ te | sám ṛbhúbhiḥ pibasva ratnadhébhiḥ sakhī́n yā́n indra cakṛṣé sukṛtyā́ ||
In the morning you drank the pressed Soma, O Indra of tawny steeds; the midday pressing is wholly yours. Drink together with the Ṛbhus, the treasure-bearers—those friends whom you have made by your right and perfect action.
प्रा॒तरिति॑ । सु॒तम् । अ॒पि॒बः॒ । ह॒रि॒ऽअ॒श्व॒ । माध्य॑न्दिनम् । सव॑नम् । केव॑लम् । ते॒ । सम् । ऋ॒भुऽभिः॑ । पि॒ब॒स्व॒ । र॒त्न॒ऽधेभिः॑ । सखी॑न् । यान् । इ॒न्द्र॒ । च॒कृ॒षे । सु॒ऽकृ॒त्या ॥प्रातरिति । सुतम् । अपिबः । हरिअश्व । माध्यन्दिनम् । सवनम् । केवलम् । ते । सम् । ऋभुभिः । पिबस्व । रत्नधेभिः । सखीन् । यान् । इन्द्र । चकृषे । सुकृत्या ॥prātariti | sutam | apibaḥ | hari-aśva | mādhyandinam | savanam | kevalam | te | sam | ṛbhu-bhiḥ | pibasva | ratna-dhebhiḥ | sakhīn | yān | indra | cakṛṣe | su-kṛtyā