Sukta 4.35
यो वः सुनोत्यभिपित्वे अह्नां तीव्रं वाजासः सवनं मदाय । तस्मै रयिमृभवः सर्ववीरमा तक्षत वृषणो मन्दसानाः ॥
यो व॑: सु॒नोत्य॑भिपि॒त्वे अह्नां॑ ती॒व्रं वा॑जास॒: सव॑नं॒ मदा॑य । तस्मै॑ र॒यिमृ॑भव॒: सर्व॑वीर॒मा त॑क्षत वृषणो मन्दसा॒नाः ॥
yó vaḥ sunóty abhipitvé ahnā́ṃ tīvráṃ vājāsaḥ sávanaṃ madā́ya | tásmai rayím ṛbhavaḥ sárvavīram ā́ takṣata vṛ́ṣaṇo mandasānā́ḥ ||
Whoever presses for you, O Vājas/Ṛbhus, in the close joining of the days, the strong pressing for delight—upon him fashion a wealth full of all heroic powers. O vigorous ones, rejoicing, carve and set this abundance into his being.
यः । वः॒ । सु॒नोति॑ । अ॒भि॒ऽपि॒त्वे । अह्ना॑म् । ती॒व्रम् । वा॒जा॒सः॒ । सव॑नम् । मदा॑य । तस्मै॑ । र॒यिम् । ऋ॒भ॒वः॒ । सर्व॑ऽवीरम् । आ । ता॒क्ष॒त॒ । वृ॒ष॒णः॒ । म॒न्द॒सा॒नाः ॥यः । वः । सुनोति । अभिपित्वे । अह्नाम् । तीव्रम् । वाजासः । सवनम् । मदाय । तस्मै । रयिम् । ऋभवः । सर्ववीरम् । आ । ताक्षत । वृषणः । मन्दसानाः ॥yaḥ | vaḥ | sunoti | abhi-pitve | ahnām | tīvram | vājāsaḥ | savanam | madāya | tasmai | rayim | ṛbhavaḥ | sarva-vīram | ā | tākṣata | vṛṣaṇaḥ | mandasānāḥ