Sukta 4.35
किम्मयः स्विच्चमस एष आस यं काव्येन चतुरो विचक्र । अथा सुनुध्वं सवनं मदाय पात ऋभवो मधुनः सोम्यस्य ॥
कि॒म्मय॑: स्विच्चम॒स ए॒ष आ॑स॒ यं काव्ये॑न च॒तुरो॑ विच॒क्र । अथा॑ सुनुध्वं॒ सव॑नं॒ मदा॑य पा॒त ऋ॑भवो॒ मधु॑नः सो॒म्यस्य॑ ॥
kím-mayaḥ svíc camása eṣá āsa yáṃ kā́vyena catúro vicakrá | áthā sunudhvam sávanaṃ madā́ya pā́ta ṛbhavo mádhunaḥ sómyasya ||
Of what substance was this chalice, which by inspired artistry you fashioned into four? Now press out the offering for delight; drink, O Ṛbhus, of the honeyed Soma—taste the sweetness of the soul’s essence.
कि॒म्ऽमयः॑ । स्वि॒त् । च॒म॒सः । ए॒षः । आ॒स॒ । यम् । काव्ये॑न । च॒तुरः॑ । वि॒ऽच॒क्र । अथ॑ । सु॒नु॒ध्व॒म् । सव॑नम् । मदा॑य । पा॒त । ऋ॒भ॒वः॒ । मधु॑नः । सो॒म्यस्य॑ ॥किम्मयः । स्वित् । चमसः । एषः । आस । यम् । काव्येन । चतुरः । विचक्र । अथ । सुनुध्वम् । सवनम् । मदाय । पात । ऋभवः । मधुनः । सोम्यस्य ॥kim-mayaḥ | svit | camasaḥ | eṣaḥ | āsa | yam | kāvyena | caturaḥ | vi-cakra | atha | sunudhvam | savanam | madāya | pāta | ṛbhavaḥ | madhunaḥ | somyasya