Sukta 4.35
व्यकृणोत चमसं चतुर्धा सखे वि शिक्षेत्यब्रवीत । अथैत वाजा अमृतस्य पन्थां गणं देवानामृभवः सुहस्ताः ॥
व्य॑कृणोत चम॒सं च॑तु॒र्धा सखे॒ वि शि॒क्षेत्य॑ब्रवीत । अथै॑त वाजा अ॒मृत॑स्य॒ पन्थां॑ ग॒णं दे॒वाना॑मृभवः सुहस्ताः ॥
vyàkṛṇota camásaṃ catúrdhā sákhé ví śíkṣéty abravīt | áthai ta vājā́ amṛ́tasya pánthāṃ gaṇáṃ devā́nām ṛbhavaḥ suhástāḥ ||
They fashioned the chalice fourfold; and one said, ‘Friend, learn the skill.’ Then these Vājas found the path of immortality; the Ṛbhus, with good hands, entered the company of the gods.
वि । अ॒कृ॒णो॒त॒ । च॒म॒सम् । च॒तुः॒ऽधा । सखे॑ । वि । शि॒क्ष॒ । इति॑ । अ॒ब्र॒वी॒त॒ । अथ॑ । ऐ॒त॒ । वा॒जाः॒ । अ॒मृत॑स्य । पन्था॑म् । ग॒णम् । दे॒वाना॑म् । ऋ॒भ॒वः॒ । सु॒ऽह॒स्ताः॒ ॥वि । अकृणोत । चमसम् । चतुःधा । सखे । वि । शिक्ष । इति । अब्रवीत । अथ । ऐत । वाजाः । अमृतस्य । पन्थाम् । गणम् । देवानाम् । ऋभवः । सुहस्ताः ॥vi | akṛṇota | camasam | catuḥ-dhā | sakhe | vi | śikṣa | iti | abravīta | atha | aita | vājāḥ | amṛtasya | panthām | gaṇam | devānām | ṛbhavaḥ | su-hastāḥ