Sukta 4.35
आगन्नृभूणामिह रत्नधेयमभूत्सोमस्य सुषुतस्य पीतिः । सुकृत्यया यत्स्वपस्यया चँ एकं विचक्र चमसं चतुर्धा ॥
आग॑न्नृभू॒णामि॒ह र॑त्न॒धेय॒मभू॒त्सोम॑स्य॒ सुषु॑तस्य पी॒तिः । सु॒कृ॒त्यया॒ यत्स्व॑प॒स्यया॑ चँ॒ एकं॑ विच॒क्र च॑म॒सं च॑तु॒र्धा ॥
ā́gann ṛbhūṇā́m ihá ratnadhéyam abhū́t sómasya súsutasya pītíḥ | sukṛtyáyā yát svapasyáyā ca ékaṃ vicakrá camásaṃ catúrdhā ||
Here has come the treasure to be set for the Ṛbhus; there is the drinking of the well-pressed Soma. For by right skill and by luminous workmanship they made one chalice into four—multiplying the single vessel of delight into a fourfold capacity.
आ । अ॒ग॒न् । ऋ॒भू॒णाम् । इ॒ह । र॒त्न॒ऽधेय॑म् । अभू॑त् । सोम॑स्य । सुऽसु॑तस्य । पी॒तिः । सु॒ऽकृ॒त्यया॑ । यत् । सु॒ऽअ॒प॒स्यया॑ । च॒ । एक॑म् । वि॒ऽच॒क्र । च॒म॒सम् । च॒तुः॒ऽधा ॥आ । अगन् । ऋभूणाम् । इह । रत्नधेयम् । अभूत् । सोमस्य । सुसुतस्य । पीतिः । सुकृत्यया । यत् । सुअपस्यया । च । एकम् । विचक्र । चमसम् । चतुःधा ॥ā | agan | ṛbhūṇām | iha | ratna-dheyam | abhūt | somasya | su-sutasya | pītiḥ | su-kṛtyayā | yat | su-apasyayā | ca | ekam | vi-cakra | camasam | catuḥ-dhā