Sukta 4.35
इहोप यात शवसो नपातः सौधन्वना ऋभवो माप भूत । अस्मिन्हि वः सवने रत्नधेयं गमन्त्विन्द्रमनु वो मदासः ॥
इ॒होप॑ यात शवसो नपात॒: सौध॑न्वना ऋभवो॒ माप॑ भूत । अ॒स्मिन्हि व॒: सव॑ने रत्न॒धेयं॒ गम॒न्त्विन्द्र॒मनु॑ वो॒ मदा॑सः ॥
ihópa yāta śaváso napātaḥ saudhánvanā ṛ́bhavo mā́pa bhūta | asmín hi vaḥ sávane ratnadhéyaṃ gámantv índram ánu vo madā́saḥ ||
Come here, O offspring of Force, O Saudhanvan Ṛbhus; do not withdraw. For in this pressing there is your treasure to be set: let your rapture and gladness go following Indra, moving with him in the right enjoyment.
इ॒ह । उप॑ । या॒त॒ । श॒व॒सः॒ । न॒पा॒तः॒ । सौध॑न्वनाः । ऋ॒भ॒वः॒ । मा । अप॑ । भू॒त॒ । अ॒स्मिन् । हि । वः॒ । सव॑ने । र॒त्न॒ऽधेय॑म् । गम॑न्तु । इन्द्र॑म् । अनु॑ । वः॒ । मदा॑सः ॥इह । उप । यात । शवसः । नपातः । सौधन्वनाः । ऋभवः । मा । अप । भूत । अस्मिन् । हि । वः । सवने । रत्नधेयम् । गमन्तु । इन्द्रम् । अनु । वः । मदासः ॥iha | upa | yāta | śavasaḥ | napātaḥ | saudhanvanāḥ | ṛbhavaḥ | mā | apa | bhūta | asmin | hi | vaḥ | savane | ratna-dheyam | gamantu | indram | anu | vaḥ | madāsaḥ