Sukta 4.34
ये अश्विना ये पितरा य ऊती धेनुं ततक्षुॠभवो ये अश्वा । ये अंसत्रा य ऋधग्रोदसी ये विभ्वो नरः स्वपत्यानि चक्रुः ॥
ये अ॒श्विना॒ ये पि॒तरा॒ य ऊ॒ती धे॒नुं त॑त॒क्षुॠ॒भवो॒ ये अश्वा॑ । ये अंस॑त्रा॒ य ऋध॒ग्रोद॑सी॒ ये विभ्वो॒ नर॑: स्वप॒त्यानि॑ च॒क्रुः ॥
yé aśvínā yé pitarā́ yá ūtī́ dhénuṃ tatakṣúr ṛ́bhavo yé áśvā | yé aṃsatrā́ yá ṛ́dhag ródasī yé vibhvó nárāḥ svapatyā́ni cakrúḥ ||
Those who became the Aśvins, those who became the Fathers, those who are the help—those Rbhus who fashioned the Cow of Light and those who fashioned the Horses of power; those who are unfailing, those who set Heaven and Earth apart in right distinction; those Vibhvan-like mighty ones who wrought works of perfect skill.
ये । अ॒स्विना॑ । ये । पि॒तरा॑ । ये । ऊ॒ती । धे॒नुम् । त॒त॒क्षुः । ऋ॒भवः॑ । ये । अश्वा॑ । ये । अंस॑त्रा । य ऋध॑क् । रोद॑सी॒ इति॑ । ये । विऽभ्वः॑ । नरः॑ । सु॒ऽअ॒प॒त्यानि॑ । च॒क्रुः ॥ये । अस्विना । ये । पितरा । ये । ऊती । धेनुम् । ततक्षुः । ऋभवः । ये । अश्वा । ये । अंसत्रा । य ऋधक् । रोदसी इति । ये । विभ्वः । नरः । सुअपत्यानि । चक्रुः ॥ye | asvinā | ye | pitarā | ye | ūtī | dhenum | tatakṣuḥ | ṛbhavaḥ | ye | aśvā | ye | aṃsatrā | ya ṛdhak | rodasī iti | ye | vi-bhvaḥ | naraḥ | su-apatyāni | cakruḥ