Sukta 4.34
ये गोमन्तं वाजवन्तं सुवीरं रयिं धत्थ वसुमन्तं पुरुक्षुम् । ते अग्रेपा ऋभवो मन्दसाना अस्मे धत्त ये च रातिं गृणन्ति ॥
ये गोम॑न्तं॒ वाज॑वन्तं सु॒वीरं॑ र॒यिं ध॒त्थ वसु॑मन्तं पुरु॒क्षुम् । ते अ॑ग्रे॒पा ऋ॑भवो मन्दसा॒ना अ॒स्मे ध॑त्त॒ ये च॑ रा॒तिं गृ॒णन्ति॑ ॥
ye gómantaṃ vā́javantaṃ suvī́raṃ rayíṃ dhatthá vásumantaṃ purukṣúm | te agrepā́ ṛ́bhavo mandasānā́ asmè dhatta yé ca rātíṃ gṛṇánti ||
You who have established the plenitude that is luminous with Rays (go-mant), rich in victorious Force (vāja-vant), and full of heroic energies (su-vīra)—a wealth (rayi) abundant and wide in its increase—O Ṛbhus, guardians of the foremost advance, rejoicing in your own inspired delight: place that same gift within us too, in those who affirm and sing the offering of your grace.
ये । गोऽम॑न्तम् । वाज॑ऽवन्तम् । सु॒ऽवीर॑म् । र॒यिम् । ध॒त्थ । वसु॑ऽमन्तम् । पु॒रु॒ऽक्षुम् । ते । अ॒ग्रे॒ऽपाः । ऋ॒भ॒वः॒ । म॒न्द॒सा॒नाः । अ॒स्मे इति॑ । ध॒त्त॒ । ये । च॒ । रा॒तिम् । गृ॒णन्ति॑ ॥ये । गोमन्तम् । वाजवन्तम् । सुवीरम् । रयिम् । धत्थ । वसुमन्तम् । पुरुक्षुम् । ते । अग्रेपाः । ऋभवः । मन्दसानाः । अस्मे इति । धत्त । ये । च । रातिम् । गृणन्ति ॥ye | go--mantam | vāja-vantam | su-vīram | rayim | dhattha | vasu-mantam | puru-kṣum | te | agre--pāḥ | ṛbhavaḥ | mandasānāḥ | asme iti | dhatta | ye | ca | rātim | gṛṇanti