Sukta 4.34
सजोषस आदित्यैर्मादयध्वं सजोषस ऋभवः पर्वतेभिः । सजोषसो दैव्येना सवित्रा सजोषसः सिन्धुभी रत्नधेभिः ॥
स॒जोष॑स आदि॒त्यैर्मा॑दयध्वं स॒जोष॑स ऋभव॒: पर्व॑तेभिः । स॒जोष॑सो॒ दैव्ये॑ना सवि॒त्रा स॒जोष॑स॒: सिन्धु॑भी रत्न॒धेभि॑: ॥
sajóṣasa ādityáir mādayadhvaṃ sajóṣasa ṛbhavaḥ párvatebhiḥ | sajóṣaso daivyénā savitrā́ sajóṣasaḥ síndhubhī ratnadhébhiḥ ||
In one accord rejoice with the Ādityas; in one accord, O Rbhus, with the mountains. In one accord with the divine Savitṛ; in one accord with the rivers, the treasure-bearing streams of power.
स॒ऽजोष॑सः । आ॒दि॒त्यैः । मा॒द॒य॒ध्व॒म् । स॒ऽजोष॑सः । ऋ॒भ॒वः॒ । पर्व॑तेभिः । स॒ऽजोष॑सः । दैव्ये॑न । स॒वि॒त्रा । स॒ऽजोष॑सः । सिन्धु॑ऽभिः । र॒त्न॒ऽधेभिः॑ ॥सजोषसः । आदित्यैः । मादयध्वम् । सजोषसः । ऋभवः । पर्वतेभिः । सजोषसः । दैव्येन । सवित्रा । सजोषसः । सिन्धुभिः । रत्नधेभिः ॥sa-joṣasaḥ | ādityaiḥ | mādayadhvam | sa-joṣasaḥ | ṛbhavaḥ | parvatebhiḥ | sa-joṣasaḥ | daivyena | savitrā | sa-joṣasaḥ | sindhu-bhiḥ | ratna-dhebhiḥ