Sukta 4.34
सजोषा इन्द्र वरुणेन सोमं सजोषाः पाहि गिर्वणो मरुद्भिः । अग्रेपाभिॠतुपाभिः सजोषा ग्नास्पत्नीभी रत्नधाभिः सजोषाः ॥
स॒जोषा॑ इन्द्र॒ वरु॑णेन॒ सोमं॑ स॒जोषा॑: पाहि गिर्वणो म॒रुद्भि॑: । अ॒ग्रे॒पाभि॑ॠतु॒पाभि॑: स॒जोषा॒ ग्नास्पत्नी॑भी रत्न॒धाभि॑: स॒जोषा॑: ॥
sajóṣā indra váruṇena sómaṃ sajóṣāḥ pāhi girvaṇo marúdbhiḥ | agré-pābhiḥ ṛtú-pābhiḥ sajóṣā gnā́spatnībhi ratnadhā́bhiḥ sajóṣāḥ ||
In one accord, O Indra, drink the Soma with Varuṇa; in one accord, drink, O lord of the hymn, with the Maruts. In one accord with the first-drinkers, with the drinkers in the right seasons; in one accord with the wives of the gods, the treasure-bearing powers.
स॒ऽजोषाः॑ । इ॒न्द्र॒ । वरु॑णेन । सोम॑म् । स॒ऽजोषाः॑ । पा॒हि॒ । गि॒र्व॒णः॒ । म॒रुत्ऽभिः॑ । अ॒ग्रे॒ऽपाभिः॑ । ऋ॒तु॒ऽपाभिः॑ । स॒ऽजोषाः॑ । ग्नाःपत्नी॑भिः । र॒त्न॒ऽधाभिः॑ । स॒ऽजोषाः॑ ॥सजोषाः । इन्द्र । वरुणेन । सोमम् । सजोषाः । पाहि । गिर्वणः । मरुत्भिः । अग्रेपाभिः । ऋतुपाभिः । सजोषाः । ग्नाःपत्नीभिः । रत्नधाभिः । सजोषाः ॥sa-joṣāḥ | indra | varuṇena | somam | sa-joṣāḥ | pāhi | girvaṇaḥ | marut-bhiḥ | agre--pābhiḥ | ṛtu-pābhiḥ | sa-joṣāḥ | gnāḥpatnībhiḥ | ratna-dhābhiḥ | sa-joṣāḥ