Sukta 4.34
आ नपातः शवसो यातनोपेमं यज्ञं नमसा हूयमानाः । सजोषसः सूरयो यस्य च स्थ मध्वः पात रत्नधा इन्द्रवन्तः ॥
आ न॑पातः शवसो यात॒नोपे॒मं य॒ज्ञं नम॑सा हू॒यमा॑नाः । स॒जोष॑सः सूरयो॒ यस्य॑ च॒ स्थ मध्व॑: पात रत्न॒धा इन्द्र॑वन्तः ॥
ā́ napātaḥ śávasaḥ yātanópa imáṃ yajñáṃ námasā hūyámānāḥ | sajóṣasaḥ sūrayo yásya ca stha mádhvaḥ pāta ratnadhā́ índravantaḥ ||
Come, O descendants of Power, come near to this sacrifice, called with reverence. In one accord, O luminous ones, in whose presence you stand—drink the honeyed sweetness; O bearers of treasure, strengthened by Indra, take in the delight.
आ । न॒पा॒तः॒ । श॒व॒सः॒ । या॒त॒न॒ । उप॑ । इ॒मम् । य॒ज्ञम् । नम॑सा । हू॒यमा॑नाः । स॒ऽजोष॑सः । सू॒र॒यः॒ । यस्य॑ । च॒ । स्थ । मध्वः॑ । पा॒त॒ । र॒त्न॒ऽधाः । इन्द्र॑ऽवन्तः ॥आ । नपातः । शवसः । यातन । उप । इमम् । यज्ञम् । नमसा । हूयमानाः । सजोषसः । सूरयः । यस्य । च । स्थ । मध्वः । पात । रत्नधाः । इन्द्रवन्तः ॥ā | napātaḥ | śavasaḥ | yātana | upa | imam | yajñam | namasā | hūyamānāḥ | sa-joṣasaḥ | sūrayaḥ | yasya | ca | stha | madhvaḥ | pāta | ratna-dhāḥ | indra-vantaḥ