Sukta 4.34
आ वाजा यातोप न ऋभुक्षा महो नरो द्रविणसो गृणानाः । आ वः पीतयोऽभिपित्वे अह्नामिमा अस्तं नवस्व इव ग्मन् ॥
आ वा॑जा या॒तोप॑ न ऋभुक्षा म॒हो न॑रो॒ द्रवि॑णसो गृणा॒नाः । आ व॑: पी॒तयो॑ऽभिपि॒त्वे अह्ना॑मि॒मा अस्तं॑ नव॒स्व॑ इव ग्मन् ॥
ā́ vājā yātópa na ṛbhukṣā mahó naro dráviṇaso gṛṇānā́ḥ | ā́ vaḥ pītáyo 'bhipitvé áhnām imā́ ástaṃ navásva iva gman ||
Come, O Vājas; come near to us, O Rbhukṣans—great ones, lords of substance—while we hymn you. Let your drinkings come in the shared home of the days; like those who return to their own dwelling at evening, come to this our resting-place.
आ । वा॒जाः॒ । या॒त॒ । उप॑ । नः॒ । ऋ॒भु॒क्षाः॒ । म॒हः । न॒रः॒ । द्रवि॑णसः । गृ॒णा॒नाः । आ । वः॒ । पी॒तयः॑ । अ॒भि॒ऽपि॒त्वे । अह्ना॑म् । इ॒माः । अस्त॑म् । न॒व॒स्वः॑ऽइव । ग्म॒न् ॥आ । वाजाः । यात । उप । नः । ऋभुक्षाः । महः । नरः । द्रविणसः । गृणानाः । आ । वः । पीतयः । अभिपित्वे । अह्नाम् । इमाः । अस्तम् । नवस्वःइव । ग्मन् ॥ā | vājāḥ | yāta | upa | naḥ | ṛbhukṣāḥ | mahaḥ | naraḥ | draviṇasaḥ | gṛṇānāḥ | ā | vaḥ | pītayaḥ | abhi-pitve | ahnām | imāḥ | astam | navasvaḥ-iva | gman