Sukta 4.34
अभूदु वो विधते रत्नधेयमिदा नरो दाशुषे मर्त्याय । पिबत वाजा ऋभवो ददे वो महि तृतीयं सवनं मदाय ॥
अभू॑दु वो विध॒ते र॑त्न॒धेय॑मि॒दा न॑रो दा॒शुषे॒ मर्त्या॑य । पिब॑त वाजा ऋभवो द॒दे वो॒ महि॑ तृ॒तीयं॒ सव॑नं॒ मदा॑य ॥
ábhūd u vo vidhaté ratnadhéyam idā́ naro dāśúṣe mártyāya | píbat vājā ṛbhavo dadé vo máhi tṛtī́yaṃ sávanaṃ mádāya ||
A treasure-bearing portion has come to be for you, for the worshipper—here and now—for the mortal who gives. Drink, O Vājas, O Rbhus: a great third pressing has been granted to you for the ecstasy of delight.
अभू॑त् । ऊँ॒ इति॑ । वः॒ । वि॒ध॒ते । र॒त्न॒ऽधेय॑म् । इ॒दा । न॒रः॒ । दा॒शुषे॑ । मर्त्या॑य । पिब॑त । वा॒जाः॒ । ऋ॒भ॒वः॒ । द॒दे । वः॒ । महि॑ तृ॒तीय॑म् । सव॑नम् । मदा॑य ॥अभूत् । ऊँ इति । वः । विधते । रत्नधेयम् । इदा । नरः । दाशुषे । मर्त्याय । पिबत । वाजाः । ऋभवः । ददे । वः । महि तृतीयम् । सवनम् । मदाय ॥abhūt | oṃ iti | vaḥ | vidhate | ratna-dheyam | idā | naraḥ | dāśuṣe | martyāya | pibata | vājāḥ | ṛbhavaḥ | dade | vaḥ | mahi tṛtīyam | savanam | madāya