Sukta 4.34
अयं वो यज्ञ ऋभवोऽकारि यमा मनुष्वत्प्रदिवो दधिध्वे । प्र वोऽच्छा जुजुषाणासो अस्थुरभूत विश्वे अग्रियोत वाजाः ॥
अ॒यं वो॑ य॒ज्ञ ऋ॑भवोऽकारि॒ यमा म॑नु॒ष्वत्प्र॒दिवो॑ दधि॒ध्वे । प्र वोऽच्छा॑ जुजुषा॒णासो॑ अस्थु॒रभू॑त॒ विश्वे॑ अग्रि॒योत वा॑जाः ॥
ayáṃ vo yajñá ṛbhavo 'kāri yám ā́ manuṣvát pradívo dadhidhvé | prá vo ácchā jujuṣāṇā́so asthúr ábhūt víśve agriyótá vājā́ḥ ||
This sacrifice has been fashioned for you, O Rbhus—the one you established from the far heaven, making it humanly accessible. Moving towards you, we stand as those who accept and cherish you; and all the first-going powers of force have become manifest.
अ॒यम् । वः॒ । य॒ज्ञः । ऋ॒भ॒वः॒ । अ॒का॒रि॒ । यम् । आ । म॒नु॒ष्वत् । प्र॒ऽदिवः॑ । द॒धि॒ध्वे । प्र । वः॒ । अच्छ॑ । जु॒जु॒षा॒णासः॑ । अ॒स्थुः॒ । अभू॑त । विश्वे॑ । अ॒ग्रि॒या । उ॒त । वा॒जाः॒ ॥अयम् । वः । यज्ञः । ऋभवः । अकारि । यम् । आ । मनुष्वत् । प्रदिवः । दधिध्वे । प्र । वः । अच्छ । जुजुषाणासः । अस्थुः । अभूत । विश्वे । अग्रिया । उत । वाजाः ॥ayam | vaḥ | yajñaḥ | ṛbhavaḥ | akāri | yam | ā | manuṣvat | pra-divaḥ | dadhidhve | pra | vaḥ | accha | jujuṣāṇāsaḥ | asthuḥ | abhūta | viśve | agriyā | uta | vājāḥ