Sukta 4.34
विदानासो जन्मनो वाजरत्ना उत ऋतुभिॠभवो मादयध्वम् । सं वो मदा अग्मत सं पुरंधिः सुवीरामस्मे रयिमेरयध्वम् ॥
वि॒दा॒नासो॒ जन्म॑नो वाजरत्ना उ॒त ऋ॒तुभि॑ॠभवो मादयध्वम् । सं वो॒ मदा॒ अग्म॑त॒ सं पुरं॑धिः सु॒वीरा॑म॒स्मे र॒यिमेर॑यध्वम् ॥
vidānā́so jánmano vāja-ratnā uta ṛtúbhir ṛbhavo mādayadhvam | sáṃ vo mádā́ agmata sáṃ púraṃdhiḥ suvī́rām asmè rayím īrayadhvam ||
Knowing your own birth and origin, O Rbhus rich in force and treasure, rejoice also with the right seasons. Let your ecstasies come together, and the power of plenitude with them; set in motion for us the wealth that brings strong and luminous offspring—an increase of inner heroism.
वि॒दा॒नासः॑ । जन्म॑नः । वा॒ज॒ऽर॒त्नाः॒ । उ॒त । ऋ॒तुऽभिः॑ । ऋ॒भ॒वः॒ । मा॒द॒य॒ध्व॒म् । सम् । वः॒ । मदाः॑ । अग्म॑त । सम् । पुर॑म्ऽधिः । सु॒ऽवीरा॑म् । अ॒स्मे इति॑ । र॒यिम् । आ । ई॒र॒य॒ध्व॒म् ॥विदानासः । जन्मनः । वाजरत्नाः । उत । ऋतुभिः । ऋभवः । मादयध्वम् । सम् । वः । मदाः । अग्मत । सम् । पुरम्धिः । सुवीराम् । अस्मे इति । रयिम् । आ । ईरयध्वम् ॥vidānāsaḥ | janmanaḥ | vāja-ratnāḥ | uta | ṛtu-bhiḥ | ṛbhavaḥ | mādayadhvam | sam | vaḥ | madāḥ | agmata | sam | puram-dhiḥ | su-vīrām | asme iti | rayim | ā | īrayadhvam