Sukta 4.34
ऋभुर्विभ्वा वाज इन्द्रो नो अच्छेमं यज्ञं रत्नधेयोप यात । इदा हि वो धिषणा देव्यह्नामधात्पीतिं सं मदा अग्मता वः ॥
ऋ॒भुर्विभ्वा॒ वाज॒ इन्द्रो॑ नो॒ अच्छे॒मं य॒ज्ञं र॑त्न॒धेयोप॑ यात । इ॒दा हि वो॑ धि॒षणा॑ दे॒व्यह्ना॒मधा॑त्पी॒तिं सं मदा॑ अग्मता वः ॥
ṛbhúr vibhvā́ vājá índro no ácchemáṃ yajñáṃ ratnadhéyopa yāta | idā́ hí vo dhiṣáṇā devy áhnām ádhāt pītíṃ sáṃ mádā agmatā vaḥ ||
O Rbhu, Vibhvan, Vāja—come with Indra to this our sacrifice that bears the treasure. For now the divine Disanā of the days has set the drinking; come together to your ecstasies of delight.
ऋ॒भुः । विऽभ्वा॑ । वाजः॑ । इन्द्रः॑ । नः॒ । अच्छ॑ । इ॒मम् । य॒ज्ञम् । र॒त्न॒ऽधेया॑ । उप॑ । यात । इ॒दा । हि । वः॒ । धि॒षणा॑ । दे॒वी । अह्वा॑म् । अधा॑त् । पी॒तिम् । सम् । मदाः॑ । अ॒ग्म॒त॒ । वः॒ ॥ऋभुः । विभ्वा । वाजः । इन्द्रः । नः । अच्छ । इमम् । यज्ञम् । रत्नधेया । उप । यात । इदा । हि । वः । धिषणा । देवी । अह्वाम् । अधात् । पीतिम् । सम् । मदाः । अग्मत । वः ॥ṛbhuḥ | vi-bhvā | vājaḥ | indraḥ | naḥ | accha | imam | yajñam | ratna-dheyā | upa | yāta | idā | hi | vaḥ | dhiṣaṇā | devī | ahvām | adhāt | pītim | sam | madāḥ | agmata | vaḥ