Sukta 4.34
नापाभूत न वोऽतीतृषामानिःशस्ता ऋभवो यज्ञे अस्मिन् । समिन्द्रेण मदथ सं मरुद्भिः सं राजभी रत्नधेयाय देवाः ॥
नापा॑भूत॒ न वो॑ऽतीतृषा॒मानि॑:शस्ता ऋभवो य॒ज्ञे अ॒स्मिन् । समिन्द्रे॑ण॒ मद॑थ॒ सं म॒रुद्भि॒: सं राज॑भी रत्न॒धेया॑य देवाः ॥
nā́pābhūta ná vo ’tītṛṣāmá aniḥśastā ṛ́bhavo yajñé asmín | sám índreṇa mádatha sáṃ marúdbhiḥ sáṃ rā́jabhi ratnadhéyāya devāḥ ||
There has been no failure in you, nor any passing beyond the call unpraised, O Ṛbhus, in this sacrifice. Unite in the ecstasy with Indra, unite with the Maruts, unite with the Kings (the ruling powers), O Gods, for the depositing of the treasure within us.
न । अप॑ । अ॒भू॒त॒ । न । वः॒ । अ॒ती॒तृ॒षा॒म॒ । अनिः॑ऽशस्ताः । ऋ॒भ॒वः॒ । य॒ज्ञे । अ॒स्मिन् । सम् । इन्द्रे॑ण । मद॑थ । सम् । म॒रुत्ऽभिः॑ । सम् । राज॑ऽभिः । र॒त्न॒ऽधेया॑य । दे॒वाः॒ ॥न । अप । अभूत । न । वः । अतीतृषाम । अनिःशस्ताः । ऋभवः । यज्ञे । अस्मिन् । सम् । इन्द्रेण । मदथ । सम् । मरुत्भिः । सम् । राजभिः । रत्नधेयाय । देवाः ॥na | apa | abhūta | na | vaḥ | atītṛṣāma | aniḥ-śastāḥ | ṛbhavaḥ | yajñe | asmin | sam | indreṇa | madatha | sam | marut-bhiḥ | sam | rāja-bhiḥ | ratna-dheyāya | devāḥ