Sukta 4.33
अपो ह्येषामजुषन्त देवा अभि क्रत्वा मनसा दीध्यानाः । वाजो देवानामभवत्सुकर्मेन्द्रस्य ऋभुक्षा वरुणस्य विभ्वा ॥
अपो॒ ह्ये॑षा॒मजु॑षन्त दे॒वा अ॒भि क्रत्वा॒ मन॑सा॒ दीध्या॑नाः । वाजो॑ दे॒वाना॑मभवत्सु॒कर्मेन्द्र॑स्य ऋभु॒क्षा वरु॑णस्य॒ विभ्वा॑ ॥
ápo hí eṣām ájuṣanta devā́ abhí kratvā́ mánasā dīdhyā́nāḥ | vā́jo devā́nām abhavat su-kármेंद्रásya ṛbhukṣā́ váruṇasya víbhvā ||
For the gods accepted their works, as they were thinking with will and mind set upon the goal. Vāja became the good-worker among the gods; Ṛbhukṣā for Indra, and Vibhvā for Varuṇa—each taking his place as a perfected power in the divine order.
अपः॑ । हि । ए॒षा॒म् । अजु॑षन्त । दे॒वाः । अ॒भि । क्रत्वा॑ । मन॑सा । दीध्या॑नाः । वाजः॑ । दे॒वाना॑म् । अ॒भ॒व॒त् । सु॒ऽकर्मा॑ । इन्द्र॑स्य । ऋ॒भु॒क्षाः । वरु॑णस्य । विऽभ्वा॑ ॥अपः । हि । एषाम् । अजुषन्त । देवाः । अभि । क्रत्वा । मनसा । दीध्यानाः । वाजः । देवानाम् । अभवत् । सुकर्मा । इन्द्रस्य । ऋभुक्षाः । वरुणस्य । विभ्वा ॥apaḥ | hi | eṣām | ajuṣanta | devāḥ | abhi | kratvā | manasā | dīdhyānāḥ | vājaḥ | devānām | abhavat | su-karmā | indrasya | ṛbhukṣāḥ | varuṇasya | vi-bhvā