Sukta 4.33
रथं ये चक्रुः सुवृतं नरेष्ठां ये धेनुं विश्वजुवं विश्वरूपाम् । त आ तक्षन्त्वृभवो रयिं नः स्ववसः स्वपसः सुहस्ताः ॥
रथं॒ ये च॒क्रुः सु॒वृतं॑ नरे॒ष्ठां ये धे॒नुं वि॑श्व॒जुवं॑ वि॒श्वरू॑पाम् । त आ त॑क्षन्त्वृ॒भवो॑ र॒यिं न॒: स्वव॑स॒: स्वप॑सः सु॒हस्ता॑: ॥
ráthaṃ yé cakrúḥ su-vṛ́taṃ nareṣṭhā́ṃ yé dhénuṃ viśvá-juvaṃ viśvá-rūpām | tá ā́ takṣantv ṛbhávo rayím naḥ svávasas svápasaḥ su-hástāḥ ||
They who fashioned the well-built chariot, best for the human journey, and who fashioned the Cow that moves with all energies and bears all forms—may those Rbhus carve out for us the rayi, the fullness of being: rich in self-power, rich in right works, with hands of perfect skill.
रथ॑म् । ये । च॒क्रुः । सु॒ऽवृत॑म् । न॒रे॒ऽस्थाम् । ये । धे॒नुम् । वि॒श्व॒ऽजुव॑म् । वि॒श्वऽरू॑पाम् । ते । आ । त॒क्ष॒न्तु॒ । ऋ॒भवः॑ । र॒यिम् । नः॒ । सु॒ऽअव॑सः । सु॒ऽअप॑सः । सु॒ऽहस्ताः॑ ॥रथम् । ये । चक्रुः । सुवृतम् । नरेस्थाम् । ये । धेनुम् । विश्वजुवम् । विश्वरूपाम् । ते । आ । तक्षन्तु । ऋभवः । रयिम् । नः । सुअवसः । सुअपसः । सुहस्ताः ॥ratham | ye | cakruḥ | su-vṛtam | nare--sthām | ye | dhenum | viśva-juvam | viśva-rūpām | te | ā | takṣantu | ṛbhavaḥ | rayim | naḥ | su-avasaḥ | su-apasaḥ | su-hastāḥ