Sukta 4.33
ये हरी मेधयोक्था मदन्त इन्द्राय चक्रुः सुयुजा ये अश्वा । ते रायस्पोषं द्रविणान्यस्मे धत्त ऋभवः क्षेमयन्तो न मित्रम् ॥
ये हरी॑ मे॒धयो॒क्था मद॑न्त॒ इन्द्रा॑य च॒क्रुः सु॒युजा॒ ये अश्वा॑ । ते रा॒यस्पोषं॒ द्रवि॑णान्य॒स्मे ध॒त्त ऋ॑भवः क्षेम॒यन्तो॒ न मि॒त्रम् ॥
yé hárī medhayó ukthā́ mádanta índrāya cakrúḥ su-yújā yé áśvā | té rāyás póṣaṃ dráviṇāny asmē dhatta ṛbhavaḥ kṣéma-yanto ná mítram ||
They who made for Indra the two tawny powers that rejoice in inspired understanding and hymn, and who made the horses perfectly yoked—O Rbhus, place in us increase of rayi and sustaining abundance, and the riches of being, fostering our peace like a friend.
ये । हरी॒ इति॑ । मे॒धया॑ । उ॒क्था । मद॑न्तः । इन्द्रा॑य । च॒क्रुः । सु॒ऽयुजा॑ । ये । अश्वा॑ । ते । रा॒यः । पोष॑म् । द्रवि॑णानि । अ॒स्मे इति॑ । ध॒त्त । ऋ॒भ॒वः॒ । क्षे॒म॒ऽयन्तः॑ । न । मि॒त्रम् ॥ये । हरी इति । मेधया । उक्था । मदन्तः । इन्द्राय । चक्रुः । सुयुजा । ये । अश्वा । ते । रायः । पोषम् । द्रविणानि । अस्मे इति । धत्त । ऋभवः । क्षेमयन्तः । न । मित्रम् ॥ye | harī iti | medhayā | ukthā | madantaḥ | indrāya | cakruḥ | su-yujā | ye | aśvā | te | rāyaḥ | poṣam | draviṇāni | asme iti | dhatta | ṛbhavaḥ | kṣema-yantaḥ | na | mitram