Sukta 4.33
द्वादश द्यून्यदगोह्यस्यातिथ्ये रणन्नृभवः ससन्तः । सुक्षेत्राकृण्वन्ननयन्त सिन्धून्धन्वातिष्ठन्नोषधीर्निम्नमापः ॥
द्वाद॑श॒ द्यून्यदगो॑ह्यस्याति॒थ्ये रण॑न्नृ॒भव॑: स॒सन्त॑: । सु॒क्षेत्रा॑कृण्व॒न्नन॑यन्त॒ सिन्धू॒न्धन्वाति॑ष्ठ॒न्नोष॑धीर्नि॒म्नमाप॑: ॥
dvā́daśa dyū́n yád agóhyasyātithyé ráṇann ṛbhávaḥ sásantaḥ | su-kṣétrā akṛṇvann ánayanta síndhūn dhánvā́tiṣṭhann óṣadhīr nímnam ā́paḥ ||
For twelve days, in the hospitality of Agohya, the Rbhus rejoiced while pursuing their aim. They made the fields good; they led the rivers; they set the plants upon the dry land; they directed the waters to the low places—ordering the movements of life by right skill.
द्वाद॑श । द्यून् । यत् । अगो॑ह्यस्य । आ॒ति॒थ्ये । रण॑न् । ऋ॒भवः॑ । स॒सन्तः॑ । सु॒ऽक्षेत्रा॑ । अ॒कृ॒ण्व॒न् । अन॑यन्त । सिन्धू॑न् । धन्व॑ । आ । अ॒ति॒ष्ठ॒न् । ओष॑धीः । नि॒म्नम् । आपः॑ ॥द्वादश । द्यून् । यत् । अगोह्यस्य । आतिथ्ये । रणन् । ऋभवः । ससन्तः । सुक्षेत्रा । अकृण्वन् । अनयन्त । सिन्धून् । धन्व । आ । अतिष्ठन् । ओषधीः । निम्नम् । आपः ॥dvādaśa | dyūn | yat | agohyasya | ātithye | raṇan | ṛbhavaḥ | sasantaḥ | su-kṣetrā | akṛṇvan | anayanta | sindhūn | dhanva | ā | atiṣṭhan | oṣadhīḥ | nimnam | āpaḥ