Sukta 4.33
ज्येष्ठ आह चमसा द्वा करेति कनीयान्त्रीन्कृणवामेत्याह । कनिष्ठ आह चतुरस्करेति त्वष्ट ऋभवस्तत्पनयद्वचो वः ॥
ज्ये॒ष्ठ आ॑ह चम॒सा द्वा क॒रेति॒ कनी॑या॒न्त्रीन्कृ॑णवा॒मेत्या॑ह । क॒नि॒ष्ठ आ॑ह च॒तुर॑स्क॒रेति॒ त्वष्ट॑ ऋभव॒स्तत्प॑नय॒द्वचो॑ वः ॥
jyéṣṭha āha camasā́ dvā́ karéti kanī́yān trī́n kṛṇavā́m éty āha | kaniṣṭhá āha catúras karéti tváṣṭā ṛbhavas tát panayat váco vaḥ ||
The eldest said, ‘Make two cups’; the younger said, ‘Let us make three’; the youngest said, ‘Make four.’ O Rbhus, Tvaṣṭṛ approved that utterance of yours—your formative word that multiplies the vessel of delight.
ज्ये॒ष्ठः । आ॒ह॒ । च॒म॒सा । द्वा । क॒र॒ । इति॑ । कनी॑यान् । त्रीन् । कृ॒ण॒वा॒म॒ । इति॑ । आ॒ह॒ । क॒नि॒ष्ठः । आ॒ह॒ । च॒तुरः॑ । क॒र॒ । इति॑ । त्वष्टा॑ । ऋ॒भ॒वः॒ । तत् । प॒न॒य॒त् । वचः॑ । वः॒ ॥ज्येष्ठः । आह । चमसा । द्वा । कर । इति । कनीयान् । त्रीन् । कृणवाम । इति । आह । कनिष्ठः । आह । चतुरः । कर । इति । त्वष्टा । ऋभवः । तत् । पनयत् । वचः । वः ॥jyeṣṭhaḥ | āha | camasā | dvā | kara | iti | kanīyān | trīn | kṛṇavāma | iti | āha | kan iṣṭhaḥ | āha | caturaḥ | kara | iti | tvaṣṭā | ṛbhavaḥ | tat | panayat | vacaḥ | vaḥ