Sukta 4.33
यत्संवत्समृभवो गामरक्षन्यत्संवत्समृभवो मा अपिंशन् । यत्संवत्समभरन्भासो अस्यास्ताभिः शमीभिरमृतत्वमाशुः ॥
यत्सं॒वत्स॑मृ॒भवो॒ गामर॑क्ष॒न्यत्सं॒वत्स॑मृ॒भवो॒ मा अपिं॑शन् । यत्सं॒वत्स॒मभ॑र॒न्भासो॑ अस्या॒स्ताभि॒: शमी॑भिरमृत॒त्वमा॑शुः ॥
yát saṃvatsám ṛbhávo gā́m árakṣan yát saṃvatsám ṛbhávo mā́ ápiṃśan | yát saṃvatsám ábharan bhā́so asyā́s tā́bhiḥ śámībhir amṛtatvám ā́śuḥ ||
Because for a full year the Rbhus guarded the Cow (the ray of knowledge), because for a year they shaped and perfected her, because for a year they bore her luminous splendors—by those works of right skill they attained immortality.
यत् । स॒म्ऽवत्स॑म् । ऋ॒भवः॑ । गाम् । अर॑क्षन् । यत् । स॒म्ऽवत्स॑म् । ऋ॒भवः॑ । माः । अपिं॑शन् । यत् । स॒म्ऽवत्स॑म् । अ॒भ॑रन् । भासः॑ । अ॒स्याः॒ । ताभिः॑ । शमी॑भिः । अ॒मृ॒त॒ऽत्वम् । आ॒शुः॒ ॥यत् । सम्वत्सम् । ऋभवः । गाम् । अरक्षन् । यत् । सम्वत्सम् । ऋभवः । माः । अपिंशन् । यत् । सम्वत्सम् । अभरन् । भासः । अस्याः । ताभिः । शमीभिः । अमृतत्वम् । आशुः ॥yat | sam-vatsam | ṛbhavaḥ | gām | arakṣan | yat | sam-vatsam | ṛbhavaḥ | māḥ | apiṃśan | yat | sam-vatsam | abharan | bhāsaḥ | asyāḥ | tābhiḥ | śamībhiḥ | amṛta-tvam | āśuḥ