Sukta 4.33
पुनर्ये चक्रुः पितरा युवाना सना यूपेव जरणा शयाना । ते वाजो विभ्वाँ ऋभुरिन्द्रवन्तो मधुप्सरसो नोऽवन्तु यज्ञम् ॥
पुन॒र्ये च॒क्रुः पि॒तरा॒ युवा॑ना॒ सना॒ यूपे॑व जर॒णा शया॑ना । ते वाजो॒ विभ्वाँ॑ ऋ॒भुरिन्द्र॑वन्तो॒ मधु॑प्सरसो नोऽवन्तु य॒ज्ञम् ॥
púnar yé cakrúḥ pitárā yúvānā sánā yū́peva jarāṇā́ śáyānā | té vājó víbhvā̃ ṛbhúr índravanto mádhupsaraso no ’vantu yajñám ||
They who made the two Parents young again, though lying aged like a worn post—may those Rbhus, Vāja, Vibhvā, and Ṛbhu, filled with Indra’s force and dripping sweetness, protect our sacrifice (our offering of conscious action).
पुनः॑ । ये । च॒क्रुः । पि॒तरा॑ । युवा॑ना । सना॑ । यूपा॑ऽइव । ज॒र॒णा । शया॑ना । ते । वाजः॑ । विऽभ्वा॑ । ऋ॒भुः । इन्द्र॑वन्तः॑ । मधु॑ऽप्सरसः । नः॒ । अ॒व॒न्तु॒ । य॒ज्ञम् ॥पुनः । ये । चक्रुः । पितरा । युवाना । सना । यूपाइव । जरणा । शयाना । ते । वाजः । विभ्वा । ऋभुः । इन्द्रवन्तः । मधुप्सरसः । नः । अवन्तु । यज्ञम् ॥punaḥ | ye | cakruḥ | pitarā | yuvānā | sanā | yūpāiva | jaraṇā | śayānā | te | vājaḥ | vi-bhvā | ṛbhuḥ | indravantaḥ | madhu-psarasaḥ | naḥ | avantu | yajñam