Sukta 4.33
यदारमक्रन्नृभवः पितृभ्यां परिविष्टी वेषणा दंसनाभिः । आदिद्देवानामुप सख्यमायन्धीरासः पुष्टिमवहन्मनायै ॥
य॒दार॒मक्र॑न्नृ॒भव॑: पि॒तृभ्यां॒ परि॑विष्टी वे॒षणा॑ दं॒सना॑भिः । आदिद्दे॒वाना॒मुप॑ स॒ख्यमा॑य॒न्धीरा॑सः पु॒ष्टिम॑वहन्म॒नायै॑ ॥
yadā́rám ákrann ṛbhávaḥ pitṛ́bhyāṃ pári-viṣṭī veṣáṇā daṃsánābhiḥ | ā́did devā́nām úpa sakhyám ā́yan dhī́rāsaḥ púṣṭim avahan mánāyai ||
When the Rbhus fashioned what was fitting for the two Parents, the enclosing seats and the adornment by their powers of skill—then they came near to the friendship of the gods. The seers of steady insight brought increase and nourishment for the mind’s delight.
य॒दा । अर॑म् । अक्र॑न् । ऋ॒भवः॑ । पि॒तृऽभ्या॑म् । परि॑ऽविष्टी । वे॒षणा॑ । दं॒सना॑भिः । आत् । इत् । दे॒वाना॑म् । उप॑ । स॒ख्यम् । आ॒य॒न् । धीरा॑सः । पु॒ष्टिम् । अ॒व॒ह॒न् । म॒नायै॑ ॥यदा । अरम् । अक्रन् । ऋभवः । पितृभ्याम् । परिविष्टी । वेषणा । दंसनाभिः । आत् । इत् । देवानाम् । उप । सख्यम् । आयन् । धीरासः । पुष्टिम् । अवहन् । मनायै ॥yadā | aram | akran | ṛbhavaḥ | pitṛ-bhyām | pari-viṣṭī | veṣaṇā | daṃsanābhiḥ | āt | it | devānām | upa | sakhyam | āyan | dhīrāsaḥ | puṣṭim | avahan | manāyai